(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।
॥ श्रीः ॥
1.161. अध्यायः 161
Mahabharata - Adi Parva - Chapter Topics
पाण्डवानां विदुरप्रेषितदूतदर्शितनौकया गङ्गोत्तरणम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-161-0x(937)(7298)
एतस्मिन्नेव काले तु यथासंप्रत्ययं कविः।
विदुरः प्रेषयामास तद्वनं पुरुषं शुचिम्॥ 1-161-1(7299)
`आत्मनः पाण्डवानां च विश्वास्यं ज्ञातपूर्वकम्।
गङ्गासंतरणार्थाय ज्ञाताभिज्ञानवाचिकम्॥' 1-161-2(7300)
स गत्वा तु यथोद्देशं पाण्डवान्ददृशे वने।
जनन्या सह कौरव्याननयज्जाह्नवीतटम्॥ 1-161-3(7301)
विदितं तन्महाबुद्धेर्विदुरस्य महात्मनः।
ततस्त्रस्यापि चारेण चेष्टितं पापचेतसः॥ 1-161-4(7302)
ततः प्रवासितो विद्वान्विदुरेण नरस्तदा।
पार्थानां दर्शयामास मनोमारुतगामिनीम्॥ 1-161-5(7303)
सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीम्।
शिवे भागीरथीतीरे नरैर्विस्रम्भिभिः कृताम्॥ 1-161-6(7304)
ततः पुनरथोवाच ज्ञापकं पूर्वचोदितम्।
युधिष्ठिर निबोधेयं संज्ञार्थं वचनं कवेः॥ 1-161-7(7305)
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः।
न हन्तीत्येवमात्मानं यो रक्षति स जीवति।
`बोद्धव्यमिति यत्प्राह विदुरस्तदिदं तथा॥' 1-161-8(7306)
तेन मां प्रेषितं विदिधि विश्वस्तं संज्ञयाऽनया।
भूयश्चैवाह मां क्षत्ता विदुरः सर्वतोऽर्थवित्।
`अधिक्षिपन्धार्तराष्ट्रं सभ्रातृकमुदारधीः॥' 1-161-9(7307)
कर्णं दुर्योधनं चैव भ्रातृभिः सहितं रणे।
शकुनिं चैव कौन्तेय विजेताऽसि न संशयः॥ 1-161-10(7308)
`वैशम्पायन उवाच। 1-161-11x(938)
पाण्डवाश्चापि गत्वाथ गङ्गायास्तीरमुत्तमम्।
निषादाधिपतिं वीरं दाशं परमधार्मिकम्॥ 1-161-11(7309)
दीपिकाभिः कृतालोकं मार्गमाणं च पाण्डवान्।
ददृशुः पाण्डवेयास्ते नाविकं त्वरयाऽन्वितम्॥ 1-161-12(7310)
निषादस्तत्र कौन्तेयानभिज्ञानं न्यवेदयत्।
विदुरस्य महाबुद्धेर्म्लेच्छभाषादि यत्तदा॥ 1-161-13(7311)
नाविक उवाच। 1-161-14x(939)
विदुरेणास्मि सन्दिष्टो दत्त्वा बहु धनं महत्।
गङ्गातीरे निविष्टस्त्वं पाण्डवांस्तारयेति ह॥ 1-161-14(7312)
सोऽहं चतुर्दशीमद्य गङ्गाया अविदूरतः।
चारेरन्वेषयाम्यस्मिन्वने मृगगणान्विते॥ 1-161-15(7313)
प्रभवन्तोऽथ भद्रं वो नावमारुह्य गम्यताम्।
युक्तारित्रपताकां च निश्छिद्रां मन्दिरोपमाम्॥' 1-161-16(7314)
इयं वारिपथे युक्ता नौरप्सु सुखगामिनी।
मोचयिष्यति वः सर्वानस्माद्देशान्न संशयः॥ 1-161-17(7315)
वैशम्पायन उवाच। 1-161-18x(940)
अथ तान्व्यथितान्दृष्ट्वा सह मात्रा नरोत्तमान्।
नावमारोप्य गङ्गायां प्रस्थितानब्रवीत्पुनः॥ 1-161-18(7316)
विदुरो मूर्ध्न्युपाघ्राय परिष्वज्य वचो मुहुः।
अरिष्टं गच्छताव्यग्राः पन्थानमिति चाब्रवीत्॥ 1-161-19(7317)
इत्युक्त्वा स तु तान्वीरान्पुमान्विदुरचोदितः।
तारयामास राजेन्द्र गङ्गां नावा नरर्षभान्॥ 1-161-20(7318)
तारयित्वा ततो गङ्गां पारं प्राप्तांश्च सर्वशः।
जयाशिषः प्रयुज्याथ यथागतमगाद्धि सः॥ 1-161-21(7319)
पाण्डवाश्च महात्मानः प्रतिसन्दिश्य वै कवेः।
गङ्गामुत्तीर्य वेगेन जग्मुर्गूढमलक्षिताः॥ 1-161-22(7320)
`ततस्ते तत्र तीर्त्वा तु गङ्गामुत्तुङ्गवीचिकाम्।
जवेन प्रययुर्वीरा दक्षिणां दिशमास्थिताः॥ 1-161-23(7321)
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः।
वनाद्वनान्तरं राजन्गहनं प्रतिपेदिरे॥ 1-161-24(7322)
श्रान्तास्ततः पिपासार्ताः क्षुधिता भयकातराः।
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः॥ 1-161-25(7323)
इतः कष्टतरं किं नु यद्वयं गहने वने।
दिशश्च न प्रजानीमो गन्तुं चैतेन शक्नुमः।
तं च पापं न जानीमो दग्धो वाथ पुरोचनः॥ 1-161-26(7324)
कथं नु विप्रमुच्येम भयादस्मादलक्षिताः।
शीघ्रमस्मानुपादाय तथैव व्रज भारत॥ 1-161-27(7325)
त्वं हि नो बलवानेको यथा सततगस्तथा।
इत्युक्तो धर्मराजेन भीमसेनो महाबलः।
आदाय कुन्तीं भ्रातॄंश्च जगामाशु स पावनिः'॥ ॥ 1-161-28(7326)
इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि एकषष्ट्यधिकशततमोऽध्यायः॥ 161 ॥
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.